- गङ्गा भारतस्य प्रमुखा नदी अस्ति। गङ्गा हिमालयात् निस्सरति। मूलरूपेण अस्याः स्रोतः लघुः अस्ति परं पश्चात् अनेके निर्झराः आगत्य गङ्गायां मिलन्ति तदा अस्याः स्रोतः दीर्घः भवति। भारतीयजनाः गङ्गां मातेव पूजयन्ति। गङ्गाजलस्य प्रयोगः अनेकेषु कृषिक्षेत्रेषु धार्मिककार्येषु च भवति। एतस्याः जलम् ‘पवित्रम्’ इति एतत् जनानां विश्वासः अस्ति। किन्तु अद्यत्वे जनाः गङ्गां दूषितां कुर्वन्ति। एतत् तु न करणीयम्। भारतीयः सर्वकारः अपि एतां निर्मलीकर्तुम् अभियानं चालयति। प्रधानमन्त्री श्री नरेन्द्रः मोदी अपि एतस्य कृते जनानाम् आह्वानम् अकरोत्। अस्माकं कर्त्तव्यम् अस्ति यत् वयम् अपि गङ्गायाः स्वच्छतायै प्रयत्नं कुर्मः जनान् च प्रेरयामः।
- एकपदेन उत्तरत-
(i) अस्माकं प्रमुखा नदी का अस्ति?
उत्तरम् – गङ्गा
(ii) गङ्गा कुतः निस्सरति?
उत्तरम् – हिमालयात्
- पूर्णवाक्येन उत्तरत-
(i) गङ्गायाः जलस्य प्रयोगः कुत्र भवति?
उत्तरम् – गङ्गायाः जलस्य प्रयोगः अनेकेषु कृषिक्षेत्रेषु धार्मिककार्येषु च भवति।
(ii) जनानां कः विश्वासः अस्ति?
उत्तरम् – जनानां विश्वासः अस्ति यत् गङ्गायाः जलम् पवित्रम् अस्ति।
- निर्देशानुसारम् उत्तरत-
(i) ‘पूजयन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम् – (ख) भारतीयजनाः
(ii) ‘तदा अस्याः स्रोतः दीर्घः भवति’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरम् – (क) तदा
(iii) ‘लघुः’ इति पदस्य विलोमपदं किम्?
उत्तरम् – (ग) दीर्घः
(iv) ‘प्रमुखा’ इति पदस्य विशेष्यपदं किम्?
उत्तरम् – (ग) नदी
- गद्यांशस्य उचितं शीर्षकं लिखत-
उत्तरम् – ‘गङ्गायाः महत्वं च संरक्षणम्’
अथवा
उत्तरम् – ‘गङ्गा – जीवनस्य स्रोतः’