III. सायंकालः भवति। सूर्यः तु अस्तं गच्छति। खगाः स्वनीडानि गच्छन्ति। कमलानि म्लानानि भवन्ति कुमुदानि च विकसन्ति। सर्वे जनाः स्वगृहम् आगच्छन्ति। रात्रौ उलूकाः इतस्ततः भ्रमन्ति। पथिकाः विश्रामाय तिष्ठन्ति। बालकाः क्रीडाक्षेत्रात् स्वं गृहम् आगच्छन्ति। गृहम् आगत्य विविधान् आहारान् खादन्ति। रात्रौ सर्वत्र अन्धकारस्य राज्यम् भवति।
- एकपदेन उत्तरत-
(i) कः अस्तं गच्छति?
उत्तरम् – सूर्यः
(ii) के स्वनीडानि गच्छन्ति?
उत्तरम् – खगाः
(iii) कानि म्लानानि भवन्ति?
उत्तरम् – कमलानि
(iv) रात्रौ कस्य राज्यम् भवति?
उत्तरम् – अन्धकारस्य
- पूर्णवाक्येन उत्तरत-
(i) बालकाः कुतः गृहम् आगच्छन्ति?
उत्तरम् – बालकाः क्रीडाक्षेत्रात् स्वं गृहम् आगच्छन्ति।
(ii) रात्रौ उलूकाः कुत्र भ्रमन्ति?
उत्तरम् – रात्रौ उलूकाः इतस्ततः भ्रमन्ति।
- निर्देशानुसारम् उत्तरत-
(i) ‘भ्रमन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम् – (घ) उलूकाः
(ii) ‘ते विविधान् आहारान् खादन्ति’ इति वाक्ये ‘विविधान्’ इति विशेषणपदस्य विशेष्यपदं किम्?
उत्तरम् – (ग) आहारान्
(iii) ‘सूर्यः तु अस्तं गच्छति’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरम् – (ग) तु
(iv) ‘पथिकाः’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तरम् – (क) तिष्ठन्ति
- अस्य गद्यांशस्य उचितं शीर्षकं लिखत-
उत्तरम् – ‘सायंकालीन दृश्यं’
अथवा
उत्तरम् – ‘प्रकृतेः संध्या-छाया’