अपठित गद्यांश: – 05

एकस्मिन् वने एकः आश्रमः आसीत्। तस्मिन् आश्रमे एकः महातपा नाम मुनिः वसति स्म। तत्र एकः मूषक अपि वसति स्म। एकदा कुक्कुरात् भीतः मूषकः मुनेः समीपम् आगच्छत्। मुनिः तं मूषकं विडालम् अकरोत्। तदा विडालः कुक्कुरात् भीतः अभवत्। मुनिः तं कुक्कुरम् अकरोत्। पुनः कुक्कुरः सिंहात् भीतः अभवत्। मुनेः प्रभावात् सः सिंहः अभवत्। सिंहः भूत्वा सः गर्वितः अभवत्। सः मुनिं मारयितुम् अचिन्तयत्। मुनिः तस्य विचारं ज्ञात्वा तं पुनः मूषकम् अकरोत्।

  1. एकपदेन उत्तरत-

(i) मुनेः नाम किम् असीत्?

उत्तरम् – महातपा

(ii) कः विडालात् भीतः अभवत्?

उत्तरम् – कुक्कुरः

 

  1. पूर्णवाक्येन उत्तरत-

(i) मूषकः सिंहः भूत्वा किम् अचिन्तयत्?

उत्तरम् – मूषकः सिंहः भूत्वा मुनिं मारयितुम् अचिन्तयत्।

(ii) मुनिः कुत्र वसति स्म?

उत्तरम् – मुनिः वनस्थिते आश्रमे वसति स्म।

 

  1. निर्देशानुसारम् उत्तरत-

(i) ‘अचिन्तयत्’ इति क्रियापदस्य कर्तृपदं किम्?

उत्तरम् – (ख) सः

(ii) ‘तं पुनः मूषकम् अकरोत् ‘ अस्मिन् वाक्ये अव्ययपदं किम्?

उत्तरम् – (ग) पुनः

(iii) ‘आश्रमः’ इति पदस्य विशेषणपदं किम्?

उत्तरम् – (क) एकः

(iv) ‘विज्ञाय’ इति पदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम्?

उत्तरम् – (ख) ज्ञात्वा

 

  1. अस्य अनुच्छेदस्य उचितं शीर्षकं लिखत-

उत्तरम् – ‘मूषकस्य गर्वः’

अथवा

उत्तरम् – ‘मुनेः शक्ति च शिक्षायाः महत्वम्’

You cannot copy content of this page