अधुना सम्पूर्णे भारतदेशे प्रदूषणम् एका गभीरा समस्या वर्तते। प्रदूषणस्य त्रयः प्रकाराः सन्ति। जलप्रदूषणं, वायुप्रदूषणं ध्वनिप्रदूषणं च। अद्यत्वे जनाः भौतिकसाधनैः सम्पन्नं जीवनं जीवितुम् इच्छन्ति। एतस्य कृते ते निर्भीकाः भूत्वा प्रकृतिं प्रति अत्याचारं कुर्वन्ति। जनाः वृक्षारोपणं तु न कुर्वन्ति परन्तु वृक्षाणां छेदनं अवश्यम् एव कुर्वन्ति। यन्त्रालयानां निर्माणं तीव्रगत्या भवति। वाहनानां सङ्ख्या अपि प्रतिदिनं वर्धते एव। यस्मात् कारणात् यन्त्रालयेभ्यः वाहनेभ्यः निर्गताः विषमिश्रितरसायनपदार्थाः, धूमाः ध्वनयः च सम्पूर्ण वातावरणं प्रदूषितं कुर्वन्ति। प्रदूषण-कारणात् बालाः वृद्धाः युवानः युवतयः च रोगग्रस्ताः भूत्वा समयात् पूर्वमेव मृत्युं प्राप्नुवन्ति। वयम् एतस्याः समस्यायाः समाधानं मिलित्वा एव कुर्याम। अस्माकं मनसि ‘सर्वे भवन्तु सुखिनः’ इति भावना भवेत्।
- एकपदेन उत्तरत-
(i) केषां निर्माणं तीव्रगत्या भवति?
उत्तरम् – यन्त्रालयानाम्
(ii) के प्रकृतिं प्रति अत्याचारं कुर्वन्ति?
उत्तरम् – जनाः
- पूर्णवाक्येन उत्तरत-
(i) जनाः कीदृशं जीवनं जीवितुम् इच्छन्ति?
उत्तरम् – जनाः भौतिकसाधनैः सम्पन्नं जीवनं जीवितुम् इच्छन्ति।
(ii) के वातावरणं प्रदूषितं कुर्वन्ति?
उत्तरम् – यन्त्रालयेभ्यः वाहनेभ्यः च निर्गताः विषमिश्रितरसायनपदार्थाः, धूमाः, ध्वनयः च वातावरणं प्रदूषितं कुर्वन्ति।
- निर्देशानुसारम् उत्तरत-
(i) ‘निर्भीकाः’ इति पदस्य विशेष्यपदं किम् अस्ति?
उत्तरम् – (ग) जनाः
(ii) ‘कुर्याम’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम् – (ख) वयम्
(iii) ‘जनाः वृक्षारोपणं न कुर्वन्ति’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरम् – (क) न
(iv) ‘दुखिनः’ इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्त?
उत्तरम् – (ग) सुखिनः
- अस्य अनुच्छेदस्य उचितं शीर्षकं लिखत-
उत्तरम् – ‘प्रदूषणस्य समस्या’
अथवा
उत्तरम् – ‘प्रदूषणं च समाधानम्’