III. मित्रं प्रति अधोलिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयन्तु –
(जनान्, हर्षम्, कुशलं, स्वच्छतायै, प्रयोगं, अद्यत्वे, कथयामि, मातापितृभ्यां, सहयोगाय, प्रयत्नशीला:)
डी.ए.वी. विद्यालयः
हरिद्वारनगरात्
प्रिय मित्र !
सस्नेहं नमोनमः।
अत्र (i) कुशलं, तत्रास्तु।
मित्र ! त्वं जानासि एव यत् (ii) अद्यत्वे भारतशासनं गङ्गायाः
(iii) स्वच्छतायै कृतसङ्कल्पम् अस्ति।अहं त्वाम् इदं सूचयन् (iv) हर्षम् अनुभवामि यत् प्रधानमन्त्री नरेन्द्रः मोदी गङ्गास्वच्छतायाः कार्ये डी. ए. वी. संस्थाम् अपि (v) सहयोगाय आहूतवान्।अद्यत्वे वयं सर्वे गङ्गायाः स्वच्छतां प्रति (vi) प्रयत्नशीला: स्मः। वयं गङ्गातटं गत्वा (vii) जनान् प्रेरयामः यत् ते गङ्गाजले अवकरं न क्षिपेयुः। पत्र-पुष्पदीपकान् न प्रवाहयेयुः। स्नाने तैलफेनस्य (viii) प्रयोगं न कुर्युः।मित्र ! अहं त्वाम् (ix) कथयामि यत् त्वम् अपि गङ्गास्वच्छतायै जनान् प्रेरय।
(x) मातापितृभ्यां सादर प्रणामाः।
भवतः मित्रम्
रमेशः