अपठित गद्यांश: – 04

स्वच्छं भारतं प्रायः अधिकांशानां भारतीयानां स्वप्नः अस्ति परं स्वप्नमात्रेण तु स्वच्छता न भविष्यति। वयं सर्वे मिलित्वा अस्यां दिशायां प्रयासं कुर्याम। वयं पश्यामः यत् जनाः मार्गेषु अथवा सार्वजनिकेषु स्थानेषु यत्र कुत्रापि अवकरं क्षिपन्ति, किम् इदम् उचितम् अस्ति? एतत् न करणीयम् यतः सर्वकारः एकाकी एव इदं कार्यं सफलं कर्तुं न शक्नोति। यदि वयम् अपि सहायतां करिष्यामः जागरुकाः च भविष्यामः तदा अयं स्वप्नः अवश्यमेव पूर्णः भविष्यति।

  1. एकपदेन उत्तरत-

(i) जनाः मार्गेषु किं क्षिपन्ति?

उत्तरम् – अवकरं

(ii) स्वच्छं भारतं केषां स्वप्नः अस्ति?

उत्तरम् – भारतीयानाम्

  1. पूर्णवाक्येन उत्तरत-

(i) अयं स्वप्नः कदा पूर्णः भविष्यति?

उत्तरम् – यदि वयम् अपि सहायतां करिष्यामः जागरुकाः च भविष्यामः तदा अयं स्वप्नः पूर्णः भविष्यति।

(ii) वयं किं पश्यामः?

उत्तरम् – वयं पश्यामः यत् जनाः मार्गेषु अथवा सार्वजनिकेषु स्थानेषु यत्र कुत्रापि अवकरं क्षिपन्ति।

 

  1. निर्देशानुसारम् उत्तरत-

(i) ‘स्वच्छं भारतं भारतीयानां स्वप्नः अस्ति’ इति वाक्ये ‘भारतम्’ इति पदस्य विशेषणपदं किम्?

उत्तरम् – (घ) स्वच्छम्

(ii) ‘कुर्याम’ इति क्रियापदस्य कर्तृपदं किम्?

उत्तरम् – (ग) वयम्

(iii) ‘एतत् न करणीयम्’ इति वाक्ये अव्ययपदं किम्?

उत्तरम् – (ख) न

(iv) ‘स्वच्छता’ इति कर्तृपदस्य क्रियापदं गद्यांशे किं प्रयुक्तम्?

उत्तरम् – (क) भविष्यति

 

  1. अस्य गद्यांशस्य उचितं शीर्षकं लिखत-

उत्तरम् – ‘स्वच्छ भारत अभियान’

अथवा

उत्तरम् – ‘स्वच्छतायाः महत्वम्’

 

 

You cannot copy content of this page