अपठित गद्यांशाः
01
- एकः कर्तव्यपरायणः नगररक्षकः आसीत् यदा सः इतस्ततः अभ्रमत् तदा एकम् वृद्धम् महापुरुषम् अपश्यत्। सः वृद्धः आम्रवृक्षस्य आरोपणे संलग्नः आसीत्? इदं दृष्ट्वा सः नगररक्षकः तं वृद्धम् अकथयत्-भवान् किमर्थम् वृथा परिश्रमं करोति? यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति। वृद्धः अवदत् – भवान् पश्यतु एतान् वृक्षान्। एतेषाम् आरोपणं मया न कृतम् परम् अहं फलानि खादामि। एवमेव मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति। तदा रक्षकः अचिन्तयत्- ‘अहम् अपि वृक्षान् आरोपयिष्यामि।’
- एकपदेन उत्तरत-
(i) कः अचिन्तयत् यत् सः अपि वृक्षान् आरोपयिष्यति?
उत्तरम् – नगररक्षकः
(ii) नगररक्षकः कीदृशः आसीत्?
उत्तरम् – कर्तव्यपरायणः
- पूर्णवाक्येन उत्तरत-
(i) नगररक्षकः वृद्धं किम् अकथयत्?
उत्तरम् – नगररक्षकः वृद्धं अकथयत् यत् भवान् किमर्थम् वृथा परिश्रमं करोति?
(ii) वृद्धः कस्मिन् कार्ये संलग्नः आसीत्?
उत्तरम् – वृद्धः आम्रवृक्षस्य आरोपणे संलग्नः आसीत्।
- निर्देशानुसारम् उत्तरत-
(i) ‘अवलोक्य’ इति पदस्य पर्यायपदं गद्यांशात् चित्वा लिखन्तु –
उत्तरम् – (ख) दृष्ट्वा
(ii) ‘यदा एषः वृक्षः फलिष्यति’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरम् – (घ) यदा
(iii) ‘महापुरुषम्’ इति पदस्य विशेषणपदं किम्?
उत्तरम् – (ग) वृद्धम्
(iv) ‘वृद्धः’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तरम् – (क) अवदत्
- अस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत-
उत्तरम् – ‘परोपकारस्य भावना’ अथवा ‘फलनाभिलाषेण कर्म’